|
पुजा विधी :-पंच दॆवता पुजन |
विष्णु का ध्यान
उद्यत्कोटिदिवाकराभमनिशं
शंख गदां पंकजं
चक्रं
बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम्।
कोटीरांगदहारकुण्डलधरं
पीताम्बरं कौस्तुभै-
र्दीप्तं श्विधरं
स्ववक्षसि लसच्छीवत्सचिह्रं भजे॥
ॐ श्री विष्णवे
नमः,ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ।
ॐ विष्णवे नमः, पाद्यं,
अर्घ्यं, आचमन्यं, स्नानं समर्पयामि।
शिव का ध्यान
ध्यायेन्नित्यं महेशं
रजतगिरिनिभं चारूचंद्रावतंसं
रत्नाकल्पोज्ज्वलांग
परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्
स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं
निखिलभय हरं पंचवक्त्रं त्रिनेत्रम् ।
ॐ नमः शिवाय,ध्यानार्थे
अक्षतपुष्पाणि समर्पयामि ।
ॐ नमः शिवाय, पाद्यं,
अर्घ्यं, आचमन्यं स्नानं समर्पयामि।
गणेश का ध्यान
खर्वं स्थूलतनुं
गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।
दन्ताघातविदारितारिरुधिरैः
सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं
सिद्धिप्रदं कामदम् ॥
ॐ श्री गणेशाय
नमः,ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ।
ॐ श्री गणेशाय नमः, पाद्यं,
अर्घ्यं, आचमन्यं, स्नानं समर्पयामि।
सूर्य का ध्यान
रक्ताम्बुजासनमशेषगुणैकसिन्धुं
भानुं समस्तजगतामधिपं
भजामि।
पद्मद्वयाभयवरान् दधतं
कराब्जै-
र्माणिक्यमौलिमरुणांगरुचिं
त्रिनेत्रम्॥
ॐ श्री सूर्याय नमः,
ध्यानार्थे अक्षतपुष्पाणि समपर्यामि ।
ॐ श्री सूर्याय नमः,
पाद्यं, अर्घ्यं, आचमन्यं, स्नानं समर्पयामि।
दुर्गा का ध्यान
सिंहस्था शशिशेखरा
मरकतप्रख्यैश्चतुर्भिर्भुजैः
शंख चक्रधनुः शरांश्च दधती
नेत्रैस्त्रिभिः शोभिता।
आमुक्तांगदहारकंकणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु
नो रत्नोल्लसत्कुण्डला॥
ॐ श्री दुर्गायै नमः,
ध्यानार्थे अक्षतपुष्पाणि समपर्यामि ।
ॐ श्री दुर्गायै नमः,
पाद्यं, अर्घ्यं, आचमन्यं, स्नानं समर्पयामि।
|
|
|
|